वांछित मन्त्र चुनें

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व१॒॑न्तः स॑मु॒द्रे । ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥

अंग्रेज़ी लिप्यंतरण

ahaṁ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre | tato vi tiṣṭhe bhuvanānu viśvotāmūṁ dyāṁ varṣmaṇopa spṛśāmi ||

पद पाठ

अ॒हम् । सु॒वे॒ । पि॒तर॑म् । अ॒स्य॒ । मू॒र्धन् । मम॑ । योनिः॑ । अ॒प्ऽसु । अ॒न्तरिति॑ । स॒मु॒द्रे । ततः॑ । वि । ति॒ष्ठे॒ । भुव॑ना । अनु॑ । विश्वा॑ । उ॒त । अ॒मूम् । द्याम् । व॒र्ष्मणा॑ । उप॑ । स्पृ॒शा॒मि॒ ॥ १०.१२५.७

ऋग्वेद » मण्डल:10» सूक्त:125» मन्त्र:7 | अष्टक:8» अध्याय:7» वर्ग:12» मन्त्र:2 | मण्डल:10» अनुवाक:10» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य) इस जगत् के (मूर्धन्) मूर्धारूप उत्कृष्ट भाग में स्थित (पितरम्) पालक सूर्य को (अहं सुवे) मैं उत्पन्न करती हूँ (मम योनिः) मेरा घर (अप्सु-समुद्रे-अन्तः) व्यापनशील परमाणुओं में तथा अन्तरिक्ष महान् आकाश में (ततः-विश्वा भुवना) तत एव सारे लोकलोकान्तरों को (अनु वि तिष्ठे) व्याप्त होकर रहती हूँ (इत उ द्याम्) इसी कारण द्युलोक के प्रति (वर्ष्मणा) वर्षणधर्म से (उप स्पृशामि) सङ्गत होती हूँ ॥७॥
भावार्थभाषाः - पारमेश्वरी ज्ञानशक्ति जगत् के ऊपर वर्त्तमान पालक सूर्य को उत्पन्न करती है और वह परमाणुओं तथा महान् आकाश के अन्दर व्याप्त है, सब लोक-लोकान्तरों में निविष्ट है, द्युलोक से मेघमण्डल से वर्षा कराती है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य मूर्धन् पितरम्-अहं सुवे) अस्य जगतो मूर्धस्थाने खलूत्कृष्टभागे स्थितं पालकं सूर्यम् “एष वै पिता य एष सूर्यः-तपति” [श० १४।१।४।१५] अहं जनयामि-उत्पादयामि (मम योनिः-अप्सु समुद्रे-अन्तः) मम गृहम् “योनिः-गृहनाम” [निघ० ३।४] व्यापनशीलेषु परमाणुषु तथाऽन्तरिक्षे महात्याकाशेऽस्ति “समुद्रः अन्तरिक्षनाम” [निघ० १।३] (ततः-विश्वा भुवना-अनु वि तिष्ठे) तत एव सर्वाणि लोकलोकान्तराणि खल्वनुगत्य व्याप्य तिष्ठामि (इत-ऊ द्यां वर्ष्मणा-उप स्पृशामि) अत एव द्युलोकं वर्षणधर्मणा स्पृशामि ॥७॥